राराजतां संस्कृतम् (Imporance of Sanskrit Lanuage

 

राराजतां संस्कृतम्



प्रा. अविनाश-चव्हाणः

सहाय्यक-प्राध्यापकः

भारतरत्न-डा. पाण्डुरङ्ग-वामन-काणे संस्कृत-अध्ययन-केन्द्रम्, 

रत्नागिरी-उपकेन्द्रम् क.का.सं.वि. रामटेकम्


आभारतं श्रावणमासस्य पौर्णिमां निमित्तीकृत्य संस्कृतमहोत्सवाः संस्कृतपाठशालासु विश्वविद्यापीठेषु विद्यालयेषु चायोज्यन्ते। पुरा अस्मिन् दिने एव बालानामुपनयसंस्कारं विधाय बालाः गुरुकुलेषु विद्यारम्भाय प्रेष्यन्ते स्म। अतः अद्यापि क्वचिदस्याः भारतीयसंस्कृतेः स्मरणार्थं संस्कृतदिनस्य आचरणं क्रियते। क्वचिदेतन्निमित्तमामासं कुत्रचिद् आसप्ताहं क्वचित् आदिनं संस्कृतं वदामः इति संस्कृतानुरागिणः प्रतिजानन्ति। संस्कृतविषये एषा पङ्किः प्रसिद्धा “भाषास मुख्या मधुरा दिव्या गीर्वाणभारती” इति। कस्मादियं भाषा मुख्या मधुरा दिव्या वोच्यत इति जिज्ञासायामत्र केचनांशा अवधेयाः –
  • Many words – One Meaning - संस्कृतभाषायाः वैशिष्ट्यं यदस्यां भाषायां एकस्य शब्दस्य कृते नानासमानार्थशब्दा भवन्ति। शब्दास्तु नाना परं तेषामर्थस्वैक एव भवति। अयम्प्रकारोऽन्यासु भाषास्वपि क्वचित्क्वचिदस्ति किन्तु संस्कृतापेक्ष्यं प्रमाणेन न्यूनमेव। यथा – आङ्ग्लभाष्यायां जलमिति शब्दस्य कृते water, aqua, H2O इत्यादयः द्वित्रा एव साक्षाच्छब्दाः भवन्ति। तदपेक्षयाऽन्यासु प्रादेशिकभाषासु किञ्चिदधिकाः किन्तु संस्कृतं शब्दकोशं पश्यामश्चेज्जलस्य कृते नैके शब्दा लभन्ते। यथा - ’जलम्, वारि, नीरम्, अम्बु, अम्भस्, किलालम्, सलिलम्, उदकम्, पयः, तोय, सलिलम्, आपः, पानीयम्’ इति।
  • One word – Many Meaning - एवञ्च अस्या भाषायाः अन्यदपि एकं वैशिष्ट्यं यद् अस्याम् शब्दस्तु एक एव परमर्थाश्च नाना। यथा – हरिः इति संस्कृतशब्दस्यानेकेऽर्थाः सन्ति। यथा - विष्णुः, सिंहः, चन्द्रः, सूर्यः, वायुः, अश्वः, सर्पः, वानरः इति।
  • Sanskrit : Mother of other languages - संस्कृतभाषा सर्वासां भारतीयभाषाणां जननी कथ्यते। अतः अन्यासु भाषासु बहवश्शब्दाः संस्कृतप्रचूरा विराजन्ते। मलयाळम्-मराठी-हिन्दी-इत्यादिभाषासु विद्यमानानां पुस्तकानां लेखानां वा सूक्ष्मदृष्ट्याऽवलोकनं कुर्मश्चेज्ज्ञातुं शक्यते कियत्संस्कृतप्रचूरत्वं तासु विद्यत इति। उदाहरणार्थम् आङ्ग्ले त्रिकोणमितिरित्यस्माद् trigonometry इति, मातृ - mother, पितृ – father, भातृ - brother इति। एवमेव अन्यासां भाषाणामपि ऊहितुं शक्यते।
  • Sanskrit: Free Word Language - संस्कृतभाषा मुक्तशब्दा भाषास्ति। संस्कृतवाक्ये यस्य कस्यापि क्रमेण शब्दान् स्थापयामस्तर्हि तेषामर्थो न परिवर्तते। किन्तु अन्यत्र पश्चामश्चेत्क्रमपरिवर्तनेनाऽर्थोऽपि परिवर्तते। यथा - 
      • Brave king kills the bad enemy. 
      • The bad king kills the brave enemy. 
      • A bad enemy kills the brave king. 
    • किन्तु संस्कृते तथा न भवति।   
      • यथा - वीरः राजा दुष्टं शत्रुं हन्ति।  
      • दुष्टं राजा वीरः शत्रुं हन्ति। 
      • दुष्टं शत्रुं वीरः राजा हन्ति। 
    • पदक्रमव्यत्यासे अपि वाक्यार्थो न भिद्यते संस्कृते अस्य विशेषकारणमस्ति पदविभक्तिः। विभक्तिप्रत्यययोजनेन वाक्ये पदक्रमव्यत्यासेऽपि अर्थस्तु विभक्त्यनुगुणमेव क्रियते।

  • Language Changes in time but not Sanskrit – संस्कृतेतरभाषाः पश्चामश्चेदन्यासु भाषासु कालान्तरेण परिवर्तनं जातं दृश्यते। या मराठीभाषा ७०० वर्षेभ्यः प्राग् व्यवहारे उपयुज्यते स्म सा अधुना नोपयुज्यते। शेक्सपीअर अनेन तत्कृतौ यदाङ्ग्लम् उपयुक्तं तदद्यत्वे न प्रयुज्यते। एवमन्यास्वपि भाषासु परिवर्तनं जातं किन्तु यत्संस्कृतं तत्कालीनरामायणमहाभारतपुराणादिग्रन्थेषु दृश्यते तत्संस्कृतमद्यापि सहजतया संस्कृतस्य सामान्यज्ञानेन पठितुं ज्ञातुं च शक्यते। संस्कृते कदाचित्स्तरे कठिणता सरलता वा भवेत्किन्तु स्तरवर्धनात् सहस्त्रं वर्षेभ्यः पूर्वं यद्रचितं तत् स्पष्टं ज्ञायते। 
  • 100% Phonetic Language – संस्कृतभाषायां शब्दाः यथा उच्चार्यन्ते, यथा श्रूयन्ते तथैव तेषां लेखनमपि शक्यते। किम्बहुना यथा उच्चार्यन्ते तथैव लिख्यन्ते, यथा लिख्यन्ते तथैव उच्चार्यन्ते। अन्यासु भाषासु किञ्चित्क्वचिद्भेदो दृश्यते यथा मराठीभाषायां ’चांगलं झालं’ इति लिख्यते किन्तु दृश्यमाने अनुस्वारेऽपि तस्योच्चारणं न क्रियते। आङ्ग्ले केचन शब्दाः यथा लिख्यन्ते तथा तेषामुच्चारणं न भवति। यथा – Psychology, honor, onion, honest etc. इत्यादिषु शब्देषु क्वचित् ’P’ Silent भवति कुत्रचित् ’h’ अतः नूतनानां बालानां कृते इमान् भेदान् अवगन्तुं महान् कालो व्यतीतो भवति संस्कृते न तथा।
  • संस्कृतसंस्कृत्योरन्वयः– भारतीयसंस्कृतेर्महिमा संस्कृताश्रितो वर्तते। संस्कृतवाङ्मये भारतीयसंस्कृतेः स्थाने स्थाने दर्शनं भवति। भारतीयसंस्कृतौ आतिथ्यसत्कारः, वसुधैव कुटुम्बकम्, मातृदेवो भव,  पितृदेवो भव, आचार्य देवो भव, अतिथिदेवो भव, माता भूमिः पुत्रोऽहं पृथिव्याः इत्यादयः नैके विषयाः भारतीयानां हृदि कृतिषु राराजन्ते।भारतीयसंस्कृतिर्भारतस्य देहस्तथा संस्कृतं भारतस्य प्राणो भवति। यदि भारतात्संस्कृतम् ऊनीकुर्मश्चेद्भारतीयसंस्कृतेरस्तित्वमेव न भविष्यति। यदि भारतीयसंस्कृतिर्नातिष्ठत्तर्हि दृश्यमानो भारतदेशो नाभविष्यत्। अतः भारतस्य समुन्नतौ भारतीया संस्कृतिरपेक्षिता, भारतीयसंस्कृतिं चावगन्तुं संस्कृतं सर्वैरत्नैरध्येतव्यम्। 
॥इति शम्॥

Comments

Popular posts from this blog

वास्तुशास्त्र में प्रतिमा-मूर्ति कला विज्ञान

Gambling and its regulation: a History through Sanskrit Literature