राराजतां संस्कृतम् (Imporance of Sanskrit Lanuage
राराजतां संस्कृतम्
प्रा. अविनाश-चव्हाणः
सहाय्यक-प्राध्यापकः
भारतरत्न-डा. पाण्डुरङ्ग-वामन-काणे संस्कृत-अध्ययन-केन्द्रम्,
रत्नागिरी-उपकेन्द्रम् क.का.सं.वि. रामटेकम्
आभारतं श्रावणमासस्य पौर्णिमां
निमित्तीकृत्य संस्कृतमहोत्सवाः संस्कृतपाठशालासु विश्वविद्यापीठेषु विद्यालयेषु चायोज्यन्ते। पुरा अस्मिन् दिने एव बालानामुपनयसंस्कारं विधाय बालाः गुरुकुलेषु
विद्यारम्भाय प्रेष्यन्ते स्म। अतः अद्यापि क्वचिदस्याः भारतीयसंस्कृतेः
स्मरणार्थं संस्कृतदिनस्य आचरणं क्रियते। क्वचिदेतन्निमित्तमामासं कुत्रचिद्
आसप्ताहं क्वचित् आदिनं संस्कृतं वदामः इति संस्कृतानुरागिणः प्रतिजानन्ति।
संस्कृतविषये एषा पङ्किः प्रसिद्धा “भाषास मुख्या मधुरा दिव्या गीर्वाणभारती” इति। कस्मादियं भाषा मुख्या मधुरा
दिव्या वोच्यत इति जिज्ञासायामत्र केचनांशा अवधेयाः –
- Many words – One Meaning - संस्कृतभाषायाः वैशिष्ट्यं यदस्यां भाषायां एकस्य शब्दस्य कृते नानासमानार्थशब्दा भवन्ति। शब्दास्तु नाना परं तेषामर्थस्वैक एव भवति। अयम्प्रकारोऽन्यासु भाषास्वपि क्वचित्क्वचिदस्ति किन्तु संस्कृतापेक्ष्यं प्रमाणेन न्यूनमेव। यथा – आङ्ग्लभाष्यायां जलमिति शब्दस्य कृते water, aqua, H2O इत्यादयः द्वित्रा एव साक्षाच्छब्दाः भवन्ति। तदपेक्षयाऽन्यासु प्रादेशिकभाषासु किञ्चिदधिकाः किन्तु संस्कृतं शब्दकोशं पश्यामश्चेज्जलस्य कृते नैके शब्दा लभन्ते। यथा - ’जलम्, वारि, नीरम्, अम्बु, अम्भस्, किलालम्, सलिलम्, उदकम्, पयः, तोय, सलिलम्, आपः, पानीयम्’ इति।
- One word – Many Meaning - एवञ्च अस्या भाषायाः अन्यदपि एकं वैशिष्ट्यं यद् अस्याम् शब्दस्तु एक एव परमर्थाश्च नाना। यथा – हरिः इति संस्कृतशब्दस्यानेकेऽर्थाः सन्ति। यथा - विष्णुः, सिंहः, चन्द्रः, सूर्यः, वायुः, अश्वः, सर्पः, वानरः इति।
- Sanskrit : Mother of other languages - संस्कृतभाषा सर्वासां भारतीयभाषाणां जननी कथ्यते। अतः अन्यासु भाषासु बहवश्शब्दाः संस्कृतप्रचूरा विराजन्ते। मलयाळम्-मराठी-हिन्दी-इत्यादिभाषासु विद्यमानानां पुस्तकानां लेखानां वा सूक्ष्मदृष्ट्याऽवलोकनं कुर्मश्चेज्ज्ञातुं शक्यते कियत्संस्कृतप्रचूरत्वं तासु विद्यत इति। उदाहरणार्थम् आङ्ग्ले त्रिकोणमितिरित्यस्माद् trigonometry इति, मातृ - mother, पितृ – father, भातृ - brother इति। एवमेव अन्यासां भाषाणामपि ऊहितुं शक्यते।
- Sanskrit: Free Word Language - संस्कृतभाषा मुक्तशब्दा भाषास्ति। संस्कृतवाक्ये यस्य कस्यापि क्रमेण शब्दान् स्थापयामस्तर्हि तेषामर्थो न परिवर्तते। किन्तु अन्यत्र पश्चामश्चेत्क्रमपरिवर्तनेनाऽर्थोऽपि परिवर्तते। यथा -
- Brave king kills the bad enemy.
- The bad king kills the brave enemy.
- A bad enemy kills the brave king.
- किन्तु संस्कृते तथा न भवति।
- यथा - वीरः राजा दुष्टं शत्रुं हन्ति।
- दुष्टं राजा वीरः शत्रुं हन्ति।
- दुष्टं शत्रुं वीरः राजा हन्ति।
- पदक्रमव्यत्यासे अपि वाक्यार्थो न भिद्यते संस्कृते अस्य
विशेषकारणमस्ति पदविभक्तिः। विभक्तिप्रत्यययोजनेन वाक्ये पदक्रमव्यत्यासेऽपि अर्थस्तु विभक्त्यनुगुणमेव क्रियते।
Comments
Post a Comment