संस्कृतभाषायाः महत्त्वम्।
संस्कृतभाषायाः महत्त्वम्। प्रा. कश्मिरा दळी सहाय्यक प्राध्यापिका, भारतरत्न डॉ. पां.वा. काणे संस्कृत अध्ययन केंद्र, रत्नागिरी उपकेंद्र क.का.सं.वि. रामटेक संस्कृतं संस्कृतभाषा इति पदं व्यवहारे सर्वत्र वयं शृण्मः। कथं व्युत्पन्नोऽयं शब्द इति पश्यामश्चेद् लभ्यते अस्य व्युत्पत्तिः कोशैग्रन्थेषु सम्-कृत इति। अस्याऽर्थः सुनिर्मितः वा सुरचितः सुसम्पादितो वेति भवति। व्याकरणदृष्ट्या संस्कृतेति पदं विशेषणम् अस्ति। संस्कृता या भाषा सा संस्कृतभाषा। प्राचीनकालादारभ्य शुद्धा संस्कारयुक्ता या भाषा सा संस्कृतम् इति नाम्ना अभिधीयते। भाषार्थे संस्कृतेति पदस्य प्रयोगः सर्वादौ वाल्मीकिरामायणस्य सुन्दरकाण्डे ३० तमे सर्गे हनुमता ‘वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्’ इत्यत्र विशेषणरूपेण कृतः दृश्यते। अनेन ज्ञातुं शक्यते यत्तत्कालेऽपि संस्कृतभाषा व्यवहारे आसीदिति। संस्कृतभाषा पूर्वमव्याकृता आसीत्। प्रकृतिप्रत्ययादिनामधिकं विवेचनं नासीत्। तदा देवानां प्रार्थनावशात् इन्द्रः प्रकृतिप्रत्ययानां विश्लेषणार्थं विवेचनं कृतवान्। अ...