भाषासु मधुरा मुख्या दिव्या गीर्वाणभारती

 

भाषासु मधुरा मुख्या दिव्या गीर्वाणभारती 

श्री. अविनाश कडू चव्हाण

सहाय्यक-प्राध्यापकः,

क.का.सं.वि. रत्नगिरि-उपकेन्द्रम्

भाषासु मधुरा मुख्या दिव्या गीर्वाणभारती 

(भाषणार्थमसौ कृतिः)

ऋषीणामाद्यानां गहनमननावाप्तसुयशाः 

श्रुतीनां शास्त्राणां निखिलगुणतत्त्वार्थनिलया।

पुरातत्त्वाधारा सकलभवज्ञानाब्धिविभवा 

जयेद् दैवी वाणी त्रिभुवनमनोज्ञा बुधप्रिया॥

        अतिथिभ्यः प्रणतिपुरस्सरं नमस्कारं विधाय संस्कृतमहोत्सवस्यौचित्यं साधयित्वा अद्य अहं अस्मिन् कार्यक्रमे संस्कृतभाषायाः स्वरूपम्, तस्याः गीर्वाणवाण्याः महत्त्वं च प्रस्तोतुम् ईहे।

       संस्कृतभाषा काचित् विशिष्टा भाषा वर्तते। प्राचीनमुनयः अस्याः भाषागतदोषान् परिष्कृत्य अपशब्दादिदोषान् निवार्य इयं भाषां व्यवहारे आनीतवन्तः तस्माद् एषा संस्कृतभाषा कथ्यते। सेयं भाषा न केवलं भारतीयानाम् अपितु सर्वलोकानां सत्पथप्रदर्शिनी, आचारविचारप्रवर्तिनी, कर्तव्याकर्तव्यबोधिनी च भवति।

संस्कृतस्य स्वरूपम् - किं नाम संस्कृतमिति जिज्ञासितं चेत्परिष्कृतं, व्याकरणादिदोषरहितं यत् तत् संस्कृतम्। प्राचीनैः ऋषिभिर्मुनिभिश्च भाषागतदोष- परिष्कारेण, अपशब्दादिदोषवारणेन या परिष्कृता भाषा व्यवहृतिमानीता सैव संस्कृत- भाषा-नाम्ना सम्बोध्यते, प्रशस्यते, आद्रियते च । 'विद्वांसो हि देवा:' विद्वज्जनव्यवहता चेयं भाषा। सैव देवभाषा, देववाणी, गीर्वाणवाणी, गीर्वाणगीरित्यादिभिर्नामधेयैः व्यवह्रियते। इयमेव भाषा विकृतिमापन्ना प्राकृतभाषापदमुपगतवती। सेयं भाषा भारतीयानां प्राणरूपिणी, जीवनोन्नायिका, सत्पथप्रदर्शिनी, आचारविचारप्रवर्तिनी, कर्तव्याकर्तव्यबोधिनी, लोकद्वय- हितसम्पादिनी च।

       प्राचीनानां मुनीनाम् अनारतश्रमस्यैव फलत्वेन अद्यापि संस्कृतभाषायां विपुलं संस्कृतवाङ्मयं दृष्टिपथमुपयाति। तेषां अविरतश्रमैः कृताः कृतयः रामायणमहाभारतपुराणस्मृतिग्रन्थदर्शनकाव्यसाहित्यनाटकप्रभृतयः दरिदृश्यन्ते। रामायणकाले, महाभारतकाले च संस्कृतभाषैव लोकव्यवहृतिभाषा आसीदिति पाश्चात्या अपि निर्विवादम् अङ्गीकुर्वन्ति। हनुमान् अशोकवाटिकायां सीतां प्राप्य संस्कृतम् आश्रित्यैव विवक्षति – 

‘वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्’ (वा.रा. सुन्दरकाण्ड ३०.१७)

बौद्धकविः अश्वघोषः प्राकृतभाषां परित्यज्य बुद्धचरित-सौन्दरनन्द-काव्यद्वयं संस्कृतभाषायामेव निर्मितवान्। भारते तु न केवलं विप्राः एवापितु रसास्वादप्रवणा ललना अपि संस्कृताध्ययनं कृतवत्यः। अस्मिन् विषये प्रमाणत्वेन पश्यामश्चेद् श्रीमच्छङ्कराचार्यः यदा भ्रारतभ्रमणं कुर्वाणः मण्डनमिश्रपण्डितस्य भवनविषये तत्रस्थाः नारीः पृच्छति तदा ताः अपि प्रत्युत्तरन् –

“स्वतः प्रमाणं परतः प्रमाणं कीराङ्गना यत्र गिरो गिरन्ति।

द्वारस्थनीडान्तरसन्निविष्टा जानीहि तन्मण्डनपण्डितौकः॥”

एवं मैकडानल-कीथ-विण्टरनित्स-पाल-डायसन-विण्डिश-हर्टल-प्रभृतयः पाश्चात्त्यविद्वांसोऽपि न केवलं पुराकाल एव, अपितु अद्यावधि संस्कृतभाषायाः सजीवत्वम्, व्यवहारं च साधयन्ति।

संस्कृतस्य सांस्कृतिकं महत्त्वम् - सांस्कृतिकदृष्ट्या संस्कृतभाषा अनर्घा प्रेष्ठा संस्कृतमाश्रिता एव  तिष्ठति। भारतस्य तु भाषैषा सांस्कृतिको निधिः। संस्कृतभाषाश्रयैव संस्कृतिः पूर्ववर्तिषु ब्रह्मदेश-श्याम-यव-सुमात्रादि-द्वीपेषु अप्रसरत्। अमेरिका-यूरोपदेशस्थ- संस्कृतिष्वपि एतस्या अक्षयः प्रभावः दृश्यते। धर्मार्थकाममोक्षात्मकपुरुषार्थचतुष्टस्य संस्कृतवाङ्मयमेव। प्रागैतिहासिक तत्त्वावबोधाय संस्कृतमेवैकं शरणम्। भारतीयसंस्कृतेः विशुद्धरूपज्ञानाय संस्कृतवाङ्मयमेवैकं साधनम्। जैनबौद्ध-चार्वाकादि-
संस्कृतयोऽपि संस्कृतभाषाश्रया एव।

        यदि भारतस्य सर्वाङ्गीणां समुन्नतिम् इच्छामः, सर्वसुखदं विकासं अभिलषामश्चेत्संस्कृतस्य प्रचारः, प्रसारश्च नितरामनिवार्यो विद्यते। मृतभाषाभाषिणो जनाः संस्कृतवाङ्मयज्ञानाभावात् स्वीयं मूढत्वमेव प्रदर्शयन्ति। हर्षावहोऽयं विषयो यदद्यत्वेऽपि संस्कृत-साहित्यं, काव्यानि, नाटकानि, गीतिकाव्यानि, गद्यसाहित्यम्, विविधाः पत्रपत्रिकाश्च प्रतिसंवत्सरं प्रकाश्यन्ते, सहस्रशो लक्षशश्च तेषामध्येतारो दरीदृश्यन्ते। भारतसर्वकारोऽपि विषयेऽस्मिन् जागरूकतां प्रदर्शयति। अक्षयोऽयं निधिः सर्वथा सर्वदा अध्येतव्यः, अनुशीलनीयः, विकासनीयश्च। एतदेव सम्प्रार्थ्य विरमामि -

सुवर्णा सद्वृत्ता विविधललितालङ्कृतिचणागुणाढ्या निर्दोषा विबुधनिवहाराधितपदा।

सुरीतिप्रख्याता भवविभवरूपाश्रितरसासदेयं शर्वाणी जयतु सुरवाणीह सततम्॥

Comments

Popular posts from this blog

राराजतां संस्कृतम् (Imporance of Sanskrit Lanuage

वास्तुशास्त्र में प्रतिमा-मूर्ति कला विज्ञान

Gambling and its regulation: a History through Sanskrit Literature