संस्कृतभाषायाः महत्त्वम्।

 

संस्कृतभाषायाः महत्त्वम्।

 प्रा. कश्मिरा दळी

सहाय्यक प्राध्यापिका,  भारतरत्न  डॉ. पां.वा. काणे 
संस्कृत अध्ययन केंद्र, रत्नागिरी उपकेंद्र क.का.सं.वि. रामटेक   

        संस्कृतं संस्कृतभाषा इति पदं व्यवहारे सर्वत्र वयं शृण्मः। कथं व्युत्पन्नोऽयं शब्द इति पश्यामश्चेद् लभ्यते अस्य व्युत्पत्तिः कोशैग्रन्थेषु सम्-कृत इति। अस्याऽर्थः सुनिर्मितः वा सुरचितः सुसम्पादितो वेति भवति। व्याकरणदृष्ट्या संस्कृतेति पदं विशेषणम् अस्ति। संस्कृता या भाषा सा संस्कृतभाषा। प्राचीनकालादारभ्य शुद्धा संस्कारयुक्ता या भाषा सा संस्कृतम् इति नाम्ना अभिधीयते। भाषार्थे संस्कृतेति पदस्य प्रयोगः सर्वादौ वाल्मीकिरामायणस्य सुन्दरकाण्डे ३० तमे सर्गे हनुमता ‘वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्’ इत्यत्र विशेषणरूपेण कृतः दृश्यते। अनेन ज्ञातुं शक्यते यत्तत्कालेऽपि संस्कृतभाषा व्यवहारे आसीदिति। संस्कृतभाषा पूर्वमव्याकृता आसीत्। प्रकृतिप्रत्ययादिनामधिकं विवेचनं नासीत्। तदा देवानां प्रार्थनावशात् इन्द्रः प्रकृतिप्रत्ययानां विश्लेषणार्थं विवेचनं कृतवान्। अस्मात्संस्कारवशाद् भारतस्य आर्यभाषायाः नाम संस्कृतम् इति प्रसिद्धं जातम्।

अस्याः भाषायाः विकासमवलोकयामश्चदवगन्तुं शक्यते यत् ऋक्संहितायां तथा ब्राह्मणारण्यकोपनिषद्ग्रन्थेषु या वैदिकभाषा दृश्यते तस्याः एव विकसितं रूपं नाम लौकिकसंस्कृतं पाणिनीयसंस्कृतं इति। वैदिककाले, वेदोत्तरकाले पाणिनिपूर्वकाले च संस्कृतं लोकभाषा व्यवहारभाषा च आसीत्। काले गति सति देशकालमर्यादया अस्याः भाषायाः नानाविधानि स्वरुपाणि सञ्जातानि। कालान्तरेण संस्कृतभाषा प्रबुद्धसमाजस्य सांस्कृतिकभाषा साहित्यिकभाषा चाभवत्। अनन्तरं सा भारतदेशे आसेतुहिमाचलं सर्वजनानां सर्वसामान्या भाषा जाता।

१७ तमे शतके युरोपियाः अभ्यासकाः संस्कृतभाषायाः परिचयं प्राप्तवन्तः। आधुनिक विदुषां मान्यतानुसारं विश्वस्य पुरातनभाषासु संस्कृतभाषा सुव्यवस्थिता तथा वैज्ञानिकी भाषा अस्ति। भाषाशास्त्रस्याधारेण विश्वस्य समस्ताः भाषाः भौगोलिकक्षेत्राधारेण चतुर्षु भागेषु विभाजिताः। ते विभागाः - १. युरेशिया, २. आफ्रिकाभूखण्डः, ३. प्रशान्तमहासागरीयः भूखण्डः, ४. अमेरिकाभूखण्डः  चेति। 

एतेषु युरेशियापरिवारे एका भारोपिया शाखा वर्तते। अस्याः शाखायाः पुनः दश उपशाखाः विद्यन्ते। तासु एका शाखा भारत-ईरानीयनशाखा विद्यते या आर्यशाखा नाम्ना ख्याता अस्ति। अस्याः पुनः त्रयः उपविभगाः – ईरानी, भारतीया आर्यभाषा च। एतेषु भारतीया-आर्यभाषायाम् संस्कृतभाषायाः अन्तर्भावः भवति। एवं बह्वीषु भाषासु विशीर्णा विस्तीर्णा च इयं भाषा अद्यापि विश्वस्मिन् राराजते।

एषा भाषा केवलं पुराणग्रन्थानां, वेदानां च भाषा न अस्ति, अपि तु अस्ति एका वैज्ञानिकी, युक्तियुक्ता, संरचिता भाषा। अस्याः सांस्कृतिके, दार्शनिके, वैज्ञानिके, आध्यात्मिके च सर्वेषु क्षेत्रेष्वमूल्यं महत्त्वं विद्यते। यः कश्चन भाषामेतामधीते, सः स्वस्मिन् न केवलं संस्कारविकासं प्राप्नोति, अपि तु स्वोत्कर्षाद्भारतस्य गौरवमपि विश्वे प्रसारयति।

॥जयतु संस्कृतं जयतु भारतम्॥

Comments

Popular posts from this blog

राराजतां संस्कृतम् (Imporance of Sanskrit Lanuage

वास्तुशास्त्र में प्रतिमा-मूर्ति कला विज्ञान

Gambling and its regulation: a History through Sanskrit Literature