युगसङ्कल्पना तथा ब्राह्ममानम्
युगसङ्कल्पना तथा ब्राह्ममानम्
कालः मानवजीवनस्य अभिन्नाङ्गः वर्तते। भारतीयवाङ्मयस्य मुख्यं लक्ष्यं तावत् मोक्षं प्रति स्वात्मानं निवेशनम्। कृत्यकर्मविधातुं सम्पादयितुं कालस्य महती आवश्यकता भवति तदेव ज्योतिषशास्त्रस्य विषयः वर्तते।
वेदाहियज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः।
तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान्।।
कालस्य अनेका घटकाः सन्ति। त्रुट्यादितः कल्पं यावत् नैकाः कालावयवाः भवन्ति। कालावयवास्तावत् त्रिशत्दिनानां एकः मासः। मासैद्वादशभिः वर्षं प्रदिष्टम्। 360 सौरवर्षैः दिव्यवर्षमेकम्। 12000 दिव्यवर्षैः एकं महायुगम्। 71 महायुगैः 1 मनुः। 14 मनुभिः 1 कल्पः। स एव कल्पः ब्रह्मणः अहः तथा च तावती एव तस्य रात्रिरपि।
श्री. रजत गौतम छेत्री
सहायकप्राध्यापकः
कविकुलगुरुकलिदाससंस्कृतविश्वविद्यालयः रामटेकम्
Comments
Post a Comment