कर्मफलप्रदाता
कर्मफलप्रदाता ईश्वर उत कर्म?
श्री. अविनाश कडू चव्हाण
सहाय्यक प्राध्यापक,
क. का. सं. वि., रत्नागिरी उपकेन्द्र 8390854926 avinashc@kksu.org
आस्तिकदर्शनेषु पूर्वमीमांसा तथा उत्तरमीमांसा (वेदान्तः) इति शास्त्रद्वयमपि कर्मविषये महत्त्वपूर्णं स्थानं भजते। पूर्वमीमांसायां सुविचारितः ‘कर्म’ इति विषयो मनुष्यजीवने नितान्तावश्यकः। कोऽपि प्राणी क्षणमपि कर्म विना स्थातुं नार्हति “न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्। कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥” (श्रीमद्भगवद्गीता ३.५) इति स्मृतिप्रसिद्धं वचनम्, भगवानपि कर्मत्यक्तुकाममर्जुनं तदेव बोधयति – ‘प्रकृतिस्त्वां नियोक्ष्यति’ (श्रीमद्भगवद्गीता १८.५९) इति। पूर्वमीमांसायां कर्मैव सर्वसाधकम्। कर्मणैव जगतः सृष्टिः स्थितिः प्रलयश्च, कर्मणैव जीवस्य कर्मफलरूपेण देहान्तरप्राप्तिः, सुखदुःखादिभोगप्राप्तिश्च भवतीति वेदार्थं प्रामाण्यत्वेनाङ्गीकृत्य, ईश्वरं नाङ्गीकुर्वन्ति पूर्वमींमासकाः। निरीश्वरवादिनाम् एतेषाम् मतेऽस्ति कश्चन विशिष्टः पदार्थः, यः ‘अपूर्वम्’ (कर्मजन्यमदृष्टम्) इति नाम्ना ज्ञायते। कर्म अपूर्वं जनयित्वाऽवसीदति, ततस्तदपूर्वमेवोचितसमये योग्यस्थाने जीवानां फलभोगस्य कृते कारणं भवति, तदेव कर्तारं कर्मफलेन योजयति, न तु अपर ईश्वर इति।
चेतनेश्वरस्योपस्थापनम् –
अत्र उच्यते सेश्वरवादिवेदान्तिभिः – केवलं कर्तृकृतं कर्म तत्कर्त्रे फलदातुं न प्रभवति, तथा च कर्मजन्यमपूर्वमपि कर्मफलदातुं न समर्थम्, जडत्वात्। अतः स्यात्तत्र कश्चन चेतनपदार्थः कर्मफलदातृत्वेन, यो निश्चिनोति ‘कर्मफलेन कुत्र गन्तव्यम्, कदा गन्तव्यम्’ इत्यादिविषये। नात्र जडं कर्म निश्चेतुं शक्नोति, न चापूर्वम्। न च तदीश्वरं विना सृष्टिमुत्पादयितुं पारयति अतोऽङ्गीकर्तव्यः सर्वज्ञः सर्वशक्तिमान् चेतनः कर्मफलदाता ईश्वरः। तस्य आज्ञया कर्ता यथासमयम्, यथापात्रम्, यथास्थानञ्च स्वकृतं कर्मफलमवाप्नोति। अयमेव सिद्धान्तः सङ्क्षिप्ततया सरलभाषया प्रतिपाद्यते रमणमहर्षिभिः उपदेशसारे “कर्तृराज्ञया प्राप्यते फलम्। कर्म किं परम्? कर्म तज्जडम्॥” (उपदेशसारम् - १) इति। कर्माऽपूर्वं जनयित्वाऽवसीदति, ततोऽपूर्वं जगन्नियामकेश्वराज्ञया सुखदुःखादि कर्मफलं जनयितुं पारयति, न तु स्वतन्त्रतया। एवमेव कर्म अपूर्वाय कारणम्, अपूर्वम् ईश्वराज्ञया कर्मफलप्राप्तये – अनेनैव न्यायेन ईश्वरः सम्पूर्णं जगन्नियमयति। अतः कर्मफलप्रदाने सर्वज्ञः सर्वशक्तिमान् चेतन् ईश्वर आवश्यकः।
ननु चेतनः कर्तैव कर्मफलप्रदान आवश्यकश्चेत्स्यात्कश्चन ईश्वरभिन्नः कर्ता, किमर्थमीश्वर एव इत्याग्रहः?
न, तथा न भवितुमर्हति यतो हीश्वरं विना कोऽप्यन्यः सर्वज्ञः सर्वशक्तिमान् नास्ति। ईश्वरभिन्नः कर्ता – कर्मफलविषये ज्ञातुं न पारयति अल्पज्ञत्वात्, अल्पशक्तिमत्वात्। अतः कर्ता स्वबुद्ध्यैव कस्मैचित् किमपि फलं यच्छेत्। तथा सति कृतनाश-अकृताभ्यागमौ दोषौ आपततः। ‘कृतनाशः – कृतयोः पुण्यपापयोर्भोगमन्तरेण नाशः’ (सर्वलक्षणसङ्ग्रहः पृ.क्र.४८)। ‘अकृताभ्यागमः – अकृतयोः पुण्यपापयोरभ्यागमः। नाम यत्कर्म येन कर्त्रा न कृतं, तस्मा अपि स स्वबुद्ध्या स्वेष्टं फलं दास्यति, तेनाऽकृताभ्यागमो दोष आपतति। अथवा यत्कर्म येन कृतम्, तस्मै कर्मोचितं फलं न प्रददाति चेत् कृतनाशः/कृतविप्रणाशो दोषः सम्भवति अतस्तद्वारणाय सर्वज्ञः सर्वशक्तिमान् ईश्वर एव कर्मफलदाने आवश्यकः।
ननु ईश्वराज्ञया सर्वम् अभविष्यत् चेद् ईश्वरोऽपि स्वेच्छया स्वभक्तेभ्य आधिक्येन सुखादिफलं तथा चाऽरिभ्यो दुःखादिफलम् अदास्यत्। तथा सतीश्वरे शास्त्रप्रतिपादितो वैषम्यादिर्दोषः सम्भवेत्?
न, तथा नास्ति, कर्तुमकर्तुमन्यथाकर्तुं समर्थः सन्नपीश्वरः जीवकृतं कर्म दृष्ट्वैव पुण्यवन्तं पुण्यफलेन, पापिनं पापफलेन योजयति, न तु स्वतन्त्रतया। तत्रेयं श्रुतिः - “पुण्यो वै पुण्येन कर्मणा भवति, पापः पापेन” (बृ.उ.३.२.१३) तस्मान्नास्तीश्वरे वैष्यम्यादिदोषः। कर्मफलदाने तु ईश्वरः पर्जन्यवद्द्रष्टव्यः, यथा बीजं पर्जन्यं विना अङ्कुरमुत्पादयितुं न शक्नोति तथैवाऽपूर्वमपीश्वरं विना कर्मफलमुत्पादयितुं न पारयति। तस्माद् ‘ईश्वर एव कर्मानुगुणं कर्मफलदाता’ इत्यभिमतं वेदान्तिभिः ।
Comments
Post a Comment