भारतरत्न पाण्डुरङ्गवामन् काणे वर्यस्य स्मृतिदिनम्

                       डा. पाण्डुरङ्ग वामन काणे ( क्रि.श. १८८०तः १९७२) प्रसिद्धः संस्कृतभाषायाः तथा भारतशास्त्रस्य (इण्डलजि) पण्डितः । अस्य जन्म भारदेशस्य महाराष्ट्रराज्यस्य रत्नागिरिमण्डलस्य साम्प्रदायिके चित्पवनविप्रकुटुम्बे अभवत् ।

                      धर्मशास्त्रस्य इतिहासः भारते प्राचीनाः तथा मध्ययुगीयाः धर्माः प्रजाधर्मः च इति आङ्ग्लभाषा महाग्रन्थरचनेन डा. काणेवर्यः सुप्रसिद्धः [२]। प्राचीनकाले तथा मध्यकाले धर्मशास्त्रस्य विकासस्य विषये अयं महाग्रन्थः अनेकशतमानस्य ग्रन्थान् हस्तप्रतयः च संशोध्य प्रणीतः । पञ्चभागेषु प्रकाशितः । अस्य प्रथमस्कन्दः क्रि.श. १९२०तमे वर्षे लोकार्पितः अन्तिमः क्रि.श १९६२तमे वर्षे प्रकाशितः । डा.काणेवर्यः मुम्बैनगरस्य एशियाटिक् सोसैटि तथा पुणेनगरस्य भण्डार्कर ओरियण्टल रिसर्च इन्स्टिट्यूट् इत्यादिसंस्थानां ग्रन्थानाम् अध्ययनम् अकरोत् । महाभारतम्, पुराणानि, कौटिल्यः इत्यादीन् वैशाल्ययुक्तविषयान् गाढं संशोध्य लिखितः इति अस्य ग्रन्थस्य वैशिष्ट्यम् । अस्य संस्कृतपाण्डित्येन पुरातनग्रन्थान् न वैभवीकृत्य वसुनिष्ठदृशा विमर्शितवान् इति अस्य कृतेः विशेषता । व्यवहारमयूखम् इति ग्रन्थं काणेमहोदयः लिखितवान् । पाठकानां धर्मशास्त्रस्य स्थूलपरिचयार्थं प्राक्कथनरूपेण धर्मशास्त्रस्य इतिहासं योजितुम् इष्टवान् । किन्तु तदेवविस्तारतां प्राप्य पञ्चभागेषु बृहद्ग्रन्थः अभवत् । तथापि आङ्ग्लभाषया धर्म इति पदस्य समानर्थकपदं नास्तीति प्रतिपादितवान् । संस्कृतम्मराठी, आङ्ग्लम् इति भाषासु आहत्य १५०००पुटानि लिखितवान् ।

    




Comments

Popular posts from this blog

राराजतां संस्कृतम् (Imporance of Sanskrit Lanuage

वास्तुशास्त्र में प्रतिमा-मूर्ति कला विज्ञान

Gambling and its regulation: a History through Sanskrit Literature