राराजतां संस्कृतम् (Imporance of Sanskrit Lanuage
राराजतां संस्कृतम् प्रा. अविनाश-चव्हाणः सहाय्यक-प्राध्यापकः भारतरत्न-डा. पाण्डुरङ्ग-वामन-काणे संस्कृत-अध्ययन-केन्द्रम्, रत्नागिरी-उपकेन्द्रम् क.का.सं.वि. रामटेकम् आभारतं श्रावणमासस्य पौर्णिमां निमित्तीकृत्य संस्कृतमहोत्सवाः संस्कृतपाठशालासु विश्वविद्यापीठेषु विद्यालयेषु चायोज्यन्ते। पुरा अस्मिन् दिने एव बालानामुपनयसंस्कारं विधाय बालाः गुरुकुलेषु विद्यारम्भाय प्रेष्यन्ते स्म। अतः अद्यापि क्वचिदस्याः भारतीयसंस्कृतेः स्मरणार्थं संस्कृतदिनस्य आचरणं क्रियते। क्वचिदेतन्निमित्तमामासं कुत्रचिद् आसप्ताहं क्वचित् आदिनं संस्कृतं वदामः इति संस्कृतानुरागिणः प्रतिजानन्ति। संस्कृतविषये एषा पङ्किः प्रसिद्धा “भाषास मुख्या मधुरा दिव्या गीर्वाणभारती” इति। कस्मादियं भाषा मुख्या मधुरा दिव्या वोच्यत इति जिज्ञासायामत्र केचनांशा अवधेयाः – Many words – One Meaning - संस्कृतभाषायाः वैशिष्ट्यं यदस्यां भाषायां एकस्य शब्दस्य कृते नानासमानार्थशब्दा भवन्ति। शब्दास्तु नाना परं तेषामर्थस्वैक एव भवति। अयम्प्रकारोऽन्यासु भाषास्वपि क्वचित्क्वचिदस्ति किन्तु संस्कृतापेक्ष्यं प्रमाणेन न्यूनमेव। यथा – आङ्...

Comments
Post a Comment